Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सप्रतियोगिकपदार्थप्रत्यक्षे प्रतियोगिप्रत्यक्षस्याकारणत्वविचारः

§34Mūla
एतेनाभावप्रत्यक्षयोग्यतायाः प्रतियोगिप्रत्यक्षयोग्यताधीनत्वादयोग्येश्वरप्रतियोगिकान्योन्याभावस्य कथं योग्यतेति निरस्तम् । स्तम्भः पिशाचो न भवति इत्यनुभवात् । अन्योन्याभावविषयत्वात्तस्य ।
नन्वीश्वरस्याप्रत्यक्षत्वात्कथं तत्प्रतियोगिकभेदस्य प्रत्यक्षत्वमिति चेत् तत्किं प्रतियोगिप्रत्यक्षं सप्रतियोगिकपदार्थप्रत्यक्षमात्रेऽन्योन्याभावप्रत्यक्ष एव वा कारणम् ? किं वा योग्यानुपलब्धेरभावप्रत्यक्षहेतुत्वादभावयोग्यत्वे प्रतियोगियोग्यतायाः प्रयोजकत्वमिष्यते ? आद्यपक्षत्रयं दूषयति– सप्रतियोगिकेतिइत्यादौ प्रत्यक्षे व्यभिचारात् । पूर्वक्षणे प्रतियोगिभूतगवयादिप्रत्यक्षाभावेऽपि तादृशप्रत्यक्षजननादिति भावः ॥

Loading…