Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

ईश्वरस्य भेदप्रत्यक्षसत्त्वे प्रमाणोक्तिः

§33Mūla
ईश्वरस्य जीवाध्यक्षीकरणे क्षमत्वान्न चोद्यावकाशः । ईश्वरप्रतियोगिको जीवाधिकरणकस्तु जीवस्य प्रत्यक्षः । सप्रतियोगिकपदार्थप्रत्यक्षे न प्रतियोगिप्रत्यक्षं प्रयोजकम् । इयं गौर्गवयसदृशी, इह स पटो नास्ति, स्तम्भः पिशाचो न भवतीत्यादौ व्यभिचारात् ।
ननु प्रतियोग्यादिप्रत्यक्षाभावेन जीवेश्वरभेदप्रत्यक्षं प्रागेव दूषितमतः कथमेतदित्यत आह – ईश्वरस्येति ॥ अन्यथा सर्वज्ञत्वानुपपत्तेरिति भावः । एतच्चाभ्युपेत्यैवोक्तम् । उक्तप्रतियोगिप्रत्यक्षापेक्षया अनुपदमेव दूष्यत्वादीश्वरप्रत्यक्षस्य कारणानपेक्षत्वाच्चेति सूचनाय न दोषावकाश इत्यनुक्त्वा न चोद्यावकाश इत्युक्तम् । जीवाधिकरणकस्तु... भेदो जीवस्य प्रत्यक्ष इति सम्बन्धः । नाहं सर्वज्ञो नाहं निर्दुःख इत्यनुभवादिति भावः ।

Loading…