Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
ईश्वरस्य भेदप्रत्यक्षसत्त्वे प्रमाणोक्तिः
§33Mūla
ईश्वरस्य तादृशप्रत्यक्षसद्भावे 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः' इति तद्वचनं प्रमाणम् ॥
नन्वीश्वरस्यैतादृशभेदप्रत्यक्षसद्भावे प्रमाणाभावः । परबुद्धेरप्रत्यक्षत्वात् । न चेश्वरः स्वधर्मिकस्वेतरभेदप्रत्यक्षवान्, आत्मत्वात् अस्मदादिवदित्यनुमानं मानमिति वाच्यम् । अनुकूलतर्काभावेनाप्रयोजकत्वात् । नाप्यागमः । तस्य तादृशार्थे प्रामाण्यानवधारणादित्यत आह– ईश्वरस्येति ॥ तद्वचनमिति ॥ कृष्णरूपेश्वरवचनमित्यर्थः ॥
तथाचेदं वाक्यं वाक्यार्थविषयकेश्वरीयप्रत्यक्षपूर्वकम् । ईश्वरीयप्रमाणवाक्यत्वात् । तादृशवाक्यान्तरवत् । परोक्षज्ञानरहित ईश्वरो वैतद्वाक्यार्थज्ञानवान्, एतद्वाक्यप्रयोक्तृत्वात् । यो यद्वाक्यप्रयोक्ता स तदर्थज्ञानवान् । यथा यज्ञदत्त इत्याद्यनुमानमीश्वरस्य जीवप्रकृतिभिन्नत्वरूपवाक्यार्थप्रत्यक्षसद्भावे प्रमाणम् । एतद्वाक्यप्रामाण्यं चोभयवादिसिद्धम् । एतादृशानुगृहीतत्वात् उक्तानुमानमपि प्रमाणमेवेत्याशयः ॥
यद्यपि भेदप्रतिपादकतद्वाक्येन तत्प्रत्यक्षं प्रसाध्य तेन भेदसाधनापेक्षया तद्वाक्येनैव भेदसाधने लाघवम् । तथापि परेण जीवेश्वरभेदे प्रत्यक्षप्रमाणासम्भवस्योक्ततया तन्निषेधाय परम्पराश्रयणम् ॥
अथ व्यावहारिकभेदस्यैवेश्वरीयप्रत्यक्षविषयत्वान्न ततः पारमार्थिकभेदसिद्धिरिति चेत् स किं पारमार्थिकत्वेन प्रतीयते व्यावहारिकत्वेनैव वा । नाद्यः । ईश्वरस्यापि भ्रान्तत्वापातात् । द्वितीये च तद्व्यावहारिकत्वं बाध्यमबाध्यं वा । आद्ये बाध्यार्थग्राहित्वात् स एव दोषः । तत्त्वतो भेदस्याव्यावहारिकत्वापत्तिश्च । अन्ते...
त्वपसिद्धान्तः । किञ्चोक्तवचनानां वक्ष्यमाणरीत्या व्यावहारिकभेदपरत्वानुपपत्तौ तदनुमेयतदर्थभूतभेदप्रत्यक्षस्य कथं व्यावहारिकविषयत्वमिति दिक् ॥