Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सिद्धान्तग्रन्थारम्भः

§32Mūla
अत्रायं परिहारः ॥ यत्तावदुक्तं न जीवेश्वरभेदे प्रत्यक्षं प्रमाणमिति तत्र ब्रूमः । ईश्वरधर्मिको जीवप्रतियोगिको भेद ईश्वरस्य प्रत्यक्षः ।
सिद्धान्तं प्रतिजानीते ॥ अत्रायमित्यादिना ॥ अत्र पूर्वपक्षेऽयं वक्ष्यमाणः परिहारो दूषणोद्धार इत्यर्थः । पूर्वपक्षक्रमेणैव सिद्धान्ताभिधानमिति ज्ञापनाय प्रथमतः प्रथमदूषणोद्धारं प्रतिजानीते ॥ यत्तावदितिईश्वरधर्मिक इति ॥ यद्यपि भेदसामान्यमीश्वरप्रत्यक्षविषयः । तत्प्रत्यक्षे च 'द्वाविमौ पुरुषौ लोके' इत्यादि तद्वचनमेव प्रमाणम् । तथापि 'स्वधर्मिकस्वेतरप्रतियोगिकभेदः स्वप्रत्यक्ष' इति सामान्यतो नियममभिप्रेत्येदं निदर्शितम् । प्रथमश्लोक ईश्वरधर्मिकभेदस्यैव प्राधान्येन प्रस्तुतत्वाद्वा । यद्यपि तत्र जडप्रतियोगिकभेदोऽपि प्रकृतः । तथापि प्रथमं जीवेश्वरभेद एव प्रत्यक्षप्रमाणाभावस्य शङ्कितत्वाज्जीवप्रतियोगिक इत्येवोक्तम् । एवमुत्तरत्र ईश्वरप्रतियोगिकादिग्रहणस्य सङ्गतिरवसेया ॥

Loading…