देवदत्तस्यैवेत्येवकारकृत्यचिन्तनम्
§25Mūla
ननु देवदत्तस्यैवेत्यत्र भोक्तृत्वेनाप्रसक्तस्य एवकारेणाव्यावर्तनात् चेतनान्तरं तद्व्यावर्त्यम् । तेनात्मान्तरसिद्धिः । एवकारपरित्यागे सर्वेषां शरीराणां प्रतिनियतभोक्तृकाणामपि देवदत्तभोगायतनत्वस्याप्युपपत्त्याऽर्थान्तरत्वमिति चेन्न । परमतप्राप्तस्य भोक्त्रन्तरस्यैवकारव्यावर्त्यत्वात् ।