Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

शरीरपक्षकाभेदसाधकानुमानविवरणम्

§24Mūla
अत्र भोगायतनत्यन्ताभावानधिकरणत्वं साध्यम् । तेन 'सुषुप्तमूर्च्छितमृतशरीरेषु' न बाधः । नापि व्यभिचारः ॥
नन्वत्र विमतत्वावच्छेदकचैत्रादिशरीरत्वं विमतत्वमात्रं वा पक्षतावच्छेदकम् । आद्ये सुप्तिमूर्च्छावस्थाविशिष्टशरीरे बाधः । तत्काले साक्ष्यधीनसुखदुःखानुभवाङ्गीकारेऽपि शरीरस्य तदवच्छेदकत्वे प्रमाणाभावात् । मृतशरीरे बाधतादवस्थ्याच्च । एवं देवदत्तीयमृतशरीरे व्यभिचारः । न च विशिष्टस्य विशेष्यानतिरिक्ततया विशेष्यीभूतशरीरे च कदाचित् साध्यसत्त्वान्नोक्तदोष इति वाच्यम् । विशिष्टस्यौपाधिकत्वेन केवलविशेष्यानतिरिक्तत्वायोगात् । न चैवं वृक्षः कपिसंयोगी एतत्त्वादित्यादावपि मूलावच्छिन्नवृक्षादौ साध्याभावसत्त्वाद् बाधादिप्रसङ्ग इति वाच्यम् । वृक्षत्वावच्छेदेन साध्यतायामिष्टापत्तेः । सामानाधिकरण्येन साधने तस्यादोषत्वात् ॥ द्वितीये तु विशिष्टस्य विमत्यविषयत्वेन पक्षबहिर्भूततया बाधानवकाशेऽपि तत्रैव व्यभिचारः । न च मृतशरीरादौ चेष्टावत्त्वरूपशरीरत्वाभावादेव न व्यभिचार इति वाच्यम् । चेष्टाशून्यसुप्तादिशरीरेऽसिद्धिवारणाय पूर्ववज्जातिरूपस्य चेष्टात्यन्ताभावानधिकरणत्वरूपस्य वा शरीरत्वस्य हेतुत्वावश्यकत्वादित्यत आह – भोगायतन... त्वेति ॥ न बाध इति ॥ सुप्तादिशरीराणां भोगायतनत्वध्वंसाधिकरणत्वेन तदत्यन्ताभावानधिकरणत्वादिति भावः ॥

Loading…