Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

शरीरपक्षकाभेदसाधकानुमानविवरणम्

§24Mūla
किञ्च विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वाद्देवदत्तशरीरवत् ।
अत्रैवानुमानान्तरमाह – किञ्चेति ॥ भोगोऽनुभवः । आयतनमवच्छेदकम् । तथाच देवदत्तभिन्नभोगानवच्छेदकत्वे सति देवदत्तभोगावच्छेदकानीत्यर्थः । सत्यन्तव्यावृत्तिः स्वयमेव वक्ष्यते । भोक्तुर्देवदत्तत्वसिद्ध्यै विशेष्यभागः । अथैवं भोक्त्रैक्यसिद्धावपि कथमभोक्तुरीश्वरस्य जीवाभेदसिद्धिरिति चेदत्राह । ईश्वरस्यापि तत्तच्छरीरावच्छिन्नरसभोक्तृत्वात्तदैक्यसिद्धिरिति । तच्चिन्त्यम् । अस्मदादिशरीरस्येश्वरभोगं प्रति साधनविशेषत्वरूपावच्छेदकत्वासम्भवात् । अन्यथा देवदत्तशरीरस्याप्युभयभोक्तृकत्वेन दृष्टान्तानुपपत्तेः । वस्तुतः चैतनैक्ये लाघवरूपानुकूलतर्कबलात् सकलचेतनैक्यसिद्धावुद्देश्यसिद्धिर्बोध्या । जीवैक्यसिद्धिमात्रमत्रोद्देश्यमित्यप्याहुः ॥

Loading…