Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वहेतुविमर्शः

§23Mūla
आत्मत्वं च न जातिः । किन्तर्हि स्वप्रकाशत्वम् । तेन हेतुसाध्ययोर्न विरोधः ।
नन्वात्मत्वजातेर्व्यक्तिभेदनियतत्वेन व्यक्त्यभेदपर्यवसितनिरुक्तसाध्यव्याप्यत्वासम्भव इत्यत आह– आत्मत्वमिति ॥ स्वप्रकाशत्वमित्यवेद्यत्वमभिमतम् । न तु स्वविषयप्रकाशत्वम् । स्वस्यैवासिद्धेः । परस्यासिद्धिस्तु वक्ष्यते । नन्वीदृशानुमानेन जीवपरमात्माभेदसिद्धावापि कथं मिथो जीवाभेदसिद्धिरिति चेन्न । सर्वेष्वेकाभेदस्य सर्वैक्यपर्यवसायित्वात् । एतच्चोपलक्षणम् । 'विमता आत्मानश्चैत्रात्मनो न भिद्यन्ते आत्मत्वाच्चैत्रात्मवद्' इत्याद्यनुमानमपि ग्राह्यम् ।

Loading…