Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अंशे सिद्धसाधनतायाः दोषत्वविमर्शः

§22Mūla
नापि भ्रान्त्या परमात्मेतरतया प्रतीयमानत्वविशिष्टम् । परमात्मन्यपि तदितरत्वभ्रान्तिसम्भवेनाद्यपक्षोक्तदोषतादवस्थ्या... ...दिति चेन्न । परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वस्यैव पक्षतावच्छेदकत्वात् । अन्यथा तवापि परमात्मनो भिद्यन्त इति भेदसाधनस्याप्यसम्भवात् ।
अस्तु तर्हि परमात्मव्यावृत्तं तदन्यत्वविशिष्टात्मत्वमेव पक्षतावच्छेदकमित्याशङ्कां निरस्यति– नापीतिविरोधादिति ॥ भेदाभेदयोर्विरोधान्न पक्षतावच्छेदकसाध्याभावसम्भवः । स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकपरोक्षज्ञानानभ्युपगमादिति भावः । यद्यपि तन्मते भेदसामान्यस्य न पारमार्थिकभेदाभावेन विरोधः । तथापि प्रातिभासिकभेदस्याव्यावर्तकत्वाद्व्यावहारिकभेदस्य च परं प्रत्यसिद्धेः पारमार्थिकभेदस्यैव पक्षकुक्षौ निवेश्यतया ध्रुवो विरोधः । वस्तुतः सिद्धान्ते सत्तात्रैविध्यानभ्युपगमेन भेदमात्रस्यैव अभेदविरोधितया तद्रीत्यैतदभिधानमिति ध्येयम् ॥ विमतपदेन विमतिविशेषविषयत्वस्यैव विवक्षिततया तावन्मात्रस्य पक्षतावच्छेदकत्वं नानुपपन्नमित्याह– परमात्मन इति । चैत्राद्या इत्यादिः । अत्र चैत्रत्वादीनामननुगतत्वात्तदवच्छिन्नधर्मिकसमूहालम्बनविमतिविषयत्वस्य पक्षतावच्छेदकत्वानुसरणम् ॥ नन्वेवमात्मत्वादिकमेव पक्षतावच्छेदकीकृत्य परमात्मभेदवादिनं प्रति तदन्यधर्मावच्छिन्ने तदभेदसाधनमसङ्गतमत आह – अन्यथेति ॥ भेदवादिनाऽऽत्मत्वादिरपक्षतावच्छेदकीकरण इत्यर्थः । असम्भवादिति ॥ परमात्मभेदस्यात्मत्वसामानाधिकरण्येन साधने यावज्जीवेषु तदसिद्धेस्तदवच्छेदेन साधने परमात्मनि बाधात्तदितरत्वेन... पक्षविशेषणे च परं प्रत्यसिद्धेस्तदितरत्वेन प्रतीयमानत्वोक्तौ पुनरुक्तबाधप्रसङ्गाद्भेदवादिनाऽप्युक्तविमतिविषयत्वमेव पक्षतावच्छेदकीकर्तव्यमिति भावः ॥

Loading…