Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अंशे सिद्धसाधनतायाः दोषत्वविमर्शः

§22Mūla
ननु किमत्र पक्षतावच्छेदकम् । न तावदात्मत्वम् । परमात्मनोऽपि पक्षत्वापत्त्या अंशे सिद्धसाधनात् । नापि परमात्मेतरत्वविशिष्टम् । साध्यमानाभेदपक्षतावच्छेदकविरोधात् ।
पक्षत्वापत्त्या पक्षतावच्छेदकाक्रान्तत्वापत्त्या । अंशे सिद्धसाधनादिति ॥ यद्यप्यवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतायामंशतः सिद्धसाधनं न दोषः । न्यूनविषयकसिद्धेरनुमित्यविरोधित्वात् । नचावच्छेदकावच्छेदेन साध्यतदभावकोटिकसन्देहलक्षणपक्षताविघटकत्वेन तस्य दोषत्वम् । अंशतः सिद्धिसत्त्वेऽप्यवच्छेदकावच्छेदेन साध्यं सामानाधिकरण्येन तदभावं चावगाहमानसन्देहसम्भवेन तस्यैव तत्र पक्षतात्वात् । न चैवमनित्ये वाङ्मनसे इत्यादौ वाङ्मात्रे साध्यसिद्धेरविरोधित्वप्रसङ्ग इति वाच्यम् । पक्षतावच्छेदकावच्छेदेन सिद्धेस्तदवच्छेदेनानुमितिविरोधितया वात्त्वावच्छेदेन सिद्धेस्तदवच्छेदेनानुमितिविरोधित्वसम्भवात् । अत एवाह मणिकारः 'पक्षतावच्छेदकनानात्वे ह्यंशतः सिद्धसाधनं दोष' इति । तथापि तद्विषयकानुमितौ तद्विषयकसिद्धिसामान्यस्य विरोधित्वमिति मतमनुसृत्येदमुक्तम् ॥

Loading…