Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अनात्मभेदसाधकं घटपक्षकं द्वितीयमनुमानम्

§93Mūla
किञ्च घटः घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावप्रतियोगी द्रव्यत्वात्पटवत् ॥
किञ्चेत्यादि ॥ घटसंसर्गेणानवच्छिन्ना प्रतियोगिता यस्य तादृशो यः पटादिधर्मिकः त्रैकालिकोऽभावस्तत्प्रतियोगीत्यर्थः । दृष्टान्ते पटात्यन्ताभावमादाय साध्यसत्त्वं, पक्षे च तत्प्रतियोगित्वबाधाद्धटपटभेदमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः ॥

Loading…