Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकद्वितीयानुमाने साध्यघटकपदानां कृत्यविचारः

§94Mūla
किञ्च घटः घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकत्रैकालिकाभावप्रतियोगी द्रव्यत्वात्पटवत् ॥
घटात्यन्ताभावप्रतियोगितामादाय सिद्धसाधनवारणाय घटसंसर्गानवच्छिन्नेति । तत्र घटपदं दृष्टान्ते साध्यवैकल्यवारणाय । न च संयोगेन पटो नास्तीति प्रतीत्या संयोगसामान्यस्यैव प्रतियोगितावच्छेदकत्वावगाहनात् कथं पटाभावस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वमिति वाच्यम् । लाघवेन प्रतियोगिसंसर्गस्यैव प्रतियोगितावच्छेदकत्वात् । घटत्वसहितसंसर्गानवच्छिन्नत्वविवक्षणाद्वा दोषाभावात् । आत्मानात्मभेदसिद्ध्याऽर्थान्तरवारणाय पटादिधर्मिकेति । पटे घटभेदसिद्धेरुद्देश्यत्वे पटधर्मिकत्वमभावविशेषणम् । दण्डादौ तत्सिद्धेरुद्देश्यत्वे च तद्धर्मिकत्वमेव तथेत्यावेदयितुमादिपदम् । घटध्वंसप्रागभावप्रतियोगितामादाय सिद्धसाधनवारणाय त्रैकालिकेति ॥ न च तयोः प्रतियोगिसमवायिमात्रवृत्तित्वनियमेन पटादिधर्मिकत्वाभावादेव वारणसम्भव इति वाच्यम् । तादृशनियमे मानाभावात् । ध्वंसप्रागभावयोः प्रतीतिबलेन प्रतियोगिसम्बन्धिमात्रवृत्तित्वौचित्यात् । पटादेरपि संयोगादिना प्रतियोगिसम्बन्धित्वात् ॥ यत्तु घटध्वंसप्रागभावयोः संसर्गाभावत्वेन घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वाभावादेव वारणं सम्भवतीति । तच्चिन्त्यम् । ध्वंसप्रागभावयोः संसर्गावच्छिन्नप्रतियोगिताकत्वानङ्गीकर्तृतार्किकैकदेशिमतेनैतत्प्रयोगात् । अत एव सिद्धान्ते पटादिधर्मिकभेदस्य धर्मिस्वरूपत्वेन त्रैकालिकत्वानुपपत्तावपि न बाधप्रसङ्गः । यत्त्वतद्गुणसंविज्ञानबहुव्रीहिणा पटादिपदस्य नित्यमात्रपरत्वान्न दोष इति । तदसङ्गतम् । तथा सति प्रक्रान्तघटपटभेदासिद्धिप्रसङ्गात् । पटादिधर्मिकसमवायादिप्रतियोगित्वसिद्ध्याऽर्थान्तरवारणायाभावपदम् । एवमग्रेऽपि ॥

Loading…