Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटात्यन्ताभावपक्षकं तृतीयमनुमानम्

§95Mūla
घटात्यन्ताभावो वा घटप्रतियोगिकपटादिधर्मिकत्रैकालिकाभावान्यः अभावत्वात्पटाभाववत् ॥
घटात्यन्ताभावो वेति ॥ अत्र घटात्यन्ताभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वम् । पक्षे तदभावादन्योन्याभावान्यत्वमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । पटात्यन्ताभावादन्यत्वमादाय सिद्धसाधनवारणाय घटप्रतियोगिकेति विशेषणं पूर्ववत् । यद्यपि घटात्यन्ताभावस्यापि घटप्रतियोगिकपटादिधर्मिकत्रैकालिकाभावत्वेन तदन्यत्वासम्भवाद्बाधः । तथापि तादृशाभावादन्य इत्येकवचनान्तेन समासात्, तादृशयत्किञ्चिदभावान्यत्वस्यैव साध्यत्वलाभान्न दोषः । न चैवं तादृशघटपटोभयाभावान्यत्वमादाय सिद्धसाधनम् । घटात्यन्ताभावत्वावच्छेदेन तदन्यत्वसाधनात् ॥

Loading…