Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटसंसर्गपक्षकं चतुर्थमनुमानम्

§96Mūla
घटसंसर्गो वा पटादिधर्मिकत्रैकालिकाभावप्रतियोगितावच्छेदकघटनिष्ठधर्मान्यः संसर्गत्वात्पटनिष्ठसंसर्गवत् ॥
घटसंसर्गो वेति ॥ अत्र घटात्यन्ताभावप्रतियोगितावच्छेदको यो घटसंसर्गस्तदन्यत्वमादाय दृष्टान्ते साध्यं बोध्यम् । पक्षे च तदयोगात् पटधर्मिकभेदप्रतियोगितावच्छेदकीभूततादात्म्यान्यत्वमादाय साध्यपर्यवसानादुद्देश्यसिद्धिः । न च घटात्यन्ताभावप्रतियोगितावच्छेदकघटत्वान्यत्वमादाय सिद्धसाधनमिति वाच्यम् । पटधर्मिकत्रैकालिकयत्किञ्चिदभावप्रतियोगितावच्छेदकत्वावच्छिन्नभेदस्य साध्यत्वात् । यत्किञ्चिदभावपदेन घटात्यन्ताभावपरिग्रहे तत्प्रतियोगितावच्छेदकत्वावच्छिन्नभेदस्य पक्षे बाधितत्वेन भेदसिद्धेरावश्यकत्वात् ॥ न च घटस्यैकसंसर्गे अपरसंसर्गावच्छिन्नात्यन्ताभावप्रतियोगितावच्छेदकत्वावच्छिन्नभेदस्य सिद्धत्वात् सिद्धसाधनमिति वाच्यम् । घटसंसर्गत्वावच्छेदेन साध्य- सिद्धेरुद्देश्यत्वेन दोषाभावात् । पटसंसर्गावच्छिन्नपटात्यन्ताभावप्रतियोगितावच्छेदकभेदमादाय सिद्धसाधनभङ्गाय घटनिष्ठेति । अन्यत् पूर्ववत् । संसर्गत्वं च मिथोभिन्नप्रतियोग्यनुयोगिकसम्बन्धत्वं, तादात्म्यातिरिक्तसम्बन्धत्वं वेति ध्येयम् ॥

Loading…