Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटप्रागभावपक्षकं पञ्चममनुमानम्

§97Mūla
घटप्रागभावो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानाद्यभावान्यः अभावत्वात् पटप्रध्वंसवत् ॥
घटप्रागभावो वेति ॥ घटस्य यः संसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानभावस्तदन्य इत्यर्थः । दृष्टान्ते घटप्रागभावान्यत्वमादाय साध्यसत्त्वम् । पक्षे च तदनुपपत्त्या पटधर्मिकभेदभिन्नत्वमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । घटध्वंसान्यत्वेन सिद्धसाधनवारणायानादीति । अन्यधर्मिकभेदसिद्ध्यऽर्थान्तरवारणाय पटादिधर्मिकेति । घटात्यन्ताभावान्यत्वेन सिद्धार्थताभङ्गाय संसर्गानवच्छिन्नप्रतियोगिताकेति । पटादिधर्मिकरूपादिप्रागभावान्यत्वमादाय तद्दोषवारणाय घटेति । तस्य च घटप्रतियोगिकत्वाभावान्न दोषः । अत्राभावान्तरस्य दृष्टान्तत्वसम्भवेऽपि पटधर्मिकानाद्यभावान्यत्वस्य पटध्वंसे स्फुटत्वात्तस्यैव दृष्टान्तीकरणमिति ज्ञातव्यम् ॥

Loading…