Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटसंसर्गानवच्छिन्नेत्यादिसाध्यस्य प्रकारान्तरेणार्थं वर्णयतां मतनिराकरणम्

§98Mūla
घटप्रागभावो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकानाद्यभावान्यः अभावत्वात् पटप्रध्वंसवत् ॥
केचित्तु घटसंसर्गेणानवच्छिन्नप्रतियोगिताको यः पटधर्मिकानाद्यभावस्तदन्यत्वं साध्यार्थः । घटात्यन्ताभावान्यत्वमादाय सिद्धसाधनवारणाय घटसंसर्गेत्यादि । तत्र घटपदं तु दृष्टान्ते पटात्यन्ताभावान्यत्वमादाय साध्यसत्त्वनिर्वाहार्थम् । घटपट- भेदरूपोद्देश्यसिद्ध्यर्थं पटादिधर्मिकेति । पटीयरूपादिध्वंसान्यत्वमादाय सिद्धार्थत्व-निरासायानादीति । प्रथमदलस्य घटसंसर्गावच्छिन्नप्रतियोगिताकान्यपरतया तथाविधपटत्वान्यत्वमादाय तद्दोषवारणायाभावपदम् ॥ नन्वेवं दृष्टान्तवत् पक्षेऽपि पटात्यन्ताभावान्यत्वमादाय सिद्धसाधनम् । न च घटप्रतियोगिकत्वेनाभावो विशेषणीयः । दृष्टान्ते साध्यवैकल्यापत्तेः । न च घटप्रागभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वनिर्वाह इति वाच्यम् । तस्य घटसंसर्गानवच्छिन्नप्रतियोगिताकत्वपटादिधर्मिकत्वशून्यत्वात् । घटपटयोरित्यग्रिमग्रन्थविरोधाच्च । तस्य पटात्यन्ताभावान्यत्वमादाय दृष्टान्ते साध्यसत्त्वोपपादनपरत्वादिति चेन्न । स्वप्रतियोगिप्रतियोगिकत्वेनाभावविशेषणात् । स्वपदस्य प्रतिज्ञायां पक्षपरत्वादुदाहरणे च दृष्टान्तपरत्वात् न कोऽपि दोष इत्याहुः ॥ तच्चिन्त्यम् । अनादिपदवैयर्थ्यापत्तेः । अनुमानपञ्चकेऽप्यत्यन्ताभावमादायैव दृष्टान्ते साध्यसत्त्वोपपादने त्रैकालिकत्वानादित्वनित्यत्वरूपविभिन्नविशेषणोपादानस्य निर्बीजत्वप्रसङ्गाच्च । एतेन व्यावहारिकभेदसिद्ध्यर्थान्तरवारणमनादिपद-प्रयोजनमित्यपास्तम् । तावन्मात्रस्य तत्प्रयोजनत्वे पूर्वानुमानेऽप्यनादित्वस्यैव लाघवेन निवेशनौचित्यात् । अग्रिमग्रन्थस्त्वनुकूलतयैव व्याख्यास्यते । तस्माद्घटध्वंसप्रागभावयोः संसर्गानवच्छिन्नप्रतियोगिताकत्वपटादिधर्मिकत्वाभ्युपगमाभिप्रायक एवायं ग्रन्थ इति युक्तमुत्पश्यामः ॥

Loading…