Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटध्वंसपक्षकं षष्ठमनुमानम्

§99Mūla
घटध्वंसो वा घटसंसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिकनित्याभावान्यः अभावत्वात्पटप्रागभाववत् ॥
घटध्वंसो वेति ॥ घटस्य यः संसर्गानवच्छिन्नप्रतियोगिताकपटादिधर्मिक-नित्याभावस्तदन्य इत्यर्थः । दृष्टान्ते घटध्वंसान्यत्वमादाय, पक्षे च घटभेदान्यत्वमादाय साध्यमुपपादनीयम् । घटप्रागभावान्यत्वमादाय सिद्धसाधनवारणाय नित्येति । उद्देश्यसिद्ध्यर्थं पटादिधर्मिकेति । घटात्यन्ताभावान्यत्वमादाय सिद्धार्थताभङ्गाय संसर्गानवच्छिन्नप्रतियोगिताकेति । पटीयरूपध्वंसान्यत्वमादाय तद्दोषनिरासार्थं घटेति । अत्रापि पटध्वंसादेर्दृष्टान्तत्वसम्भवेऽपि पूर्ववत् स्फुटप्रतिपत्तये प्रागभावग्रहणम् ॥

Loading…