घटादिपक्षकानुमानेषु साध्यवैकल्यादिशङ्का परिहारश्च
§100Mūla
घटपटयोरभेदवादिना पटे घटप्रतियोगिकान्योन्याभावाभावेऽपि पटात्यन्ताभावादेर्घटसंसर्गानवच्छिन्नप्रतियोगिकत्वादेरङ्गीकार्यत्वान्न साध्यवैकल्यादि दृष्टान्तस्य । तयोः पारमार्थिकाभेदेऽपि व्यावहारिकभेदमात्रेण पटप्रतियोगिकात्यन्ताभावादेर्घटसंसर्गानवच्छिन्नप्रतियोगिकत्वादेरङ्गीकार्यत्वात् ॥