Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

बाधस्यादिपदेन ग्रहणमितिमतनिराकरणम्

§101Mūla
अन्यथा पटार्थिन घटे प्रवृत्तिप्रसङ्गः । सिद्धघटस्य पुंसः पटसामग्र्याद्यनुपादानदोषप्रसङ्गश्च । न च व्यावहारिकान्योन्याभावसिद्ध्याऽर्थान्तरत्वम् । त्रैकालिकत्वादिनाऽन्योन्याभावस्य विशेषितत्वात् । व्यावहारिकत्वे च तदयोगात् ।
यत्त्वत्यन्तान्योन्याभावयोरैक्यमते घटान्योन्याभावस्य घटसंसर्गावच्छिन्नप्रतियोगिताकान्यत्वायोगाद् बाधस्यादिपदेन सङ्ग्रह इति तन्न । उभयसिद्धप्रमाणविरोधाभावेन बाधानवकाशात् । अत्यन्ताभावस्य सत्यत्वेन मिथ्याभूतान्योन्याभावैक्यायोगाच्च । अन्यथा पटात्यन्ताभावस्य त्रैकालिकत्वायोगेन दृष्टान्तवैकल्यस्य दुरुद्धरत्वप्रसङ्गात् । तस्माद्भावाद्वैतनिरासपरोऽसौ ग्रन्थ इत्यवधेयम् ॥

Loading…