Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

मतान्तरप्राप्तस्य श्रुत्या निषेधे दृष्टान्तकथनम्

§80Mūla
अस्ति च कुमतप्राप्तस्य निषेधः । 'तद्धैक आहुरसदेवेदमग्र आसीत्, 'एकमेवाद्वितीयं, तस्मादसतः सज्जायत' इति, 'कुतस्तु खलु सोम्यैवं स्यादिति होवाच, कथमसतः सज्जायेतेति' इत्यादौ । अत्र हि बौद्धमतप्राप्तमसत्कारणत्वं निषिध्यते । तस्मात् द्वा सुपर्णेत्याद्याः श्रुतयो जीवेश्वरभेदे प्रमाणम् । 'परमं साम्यमुपैति', 'सह ब्रह्मणा विपश्चिता' 'मम साधर्म्यमागता' इत्याद्यास्तु न व्यावहारिकभेदपरत्वेन शङ्कितुमपि शक्याः । मुक्त्यनन्तरं भेदप्रतिपादकत्वात् ॥
निषेध इति ॥ 'असदेव' इत्यादिना परमतमनूद्य 'कुतस्तु' इत्यादिना निषेध इत्यर्थः । कस्य मतेन प्राप्तं किमत्र निषिध्यत इत्याकाङ्क्षायामाह - अत्र हीतिद्वा सुपर्णेत्यादिश्रुतेः पारमार्थिकभेदपरत्वमुपसंहरति-तस्मादिति ॥ अद्वैतश्रुतीनामुक्तरीत्या बाधोपपत्तेरित्यर्थः ।

Loading…