Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रवाहतोऽनादित्वपरिष्कारः

§79Mūla
यद्वा, तत्त्वमसीति श्रुत्यर्थापरिज्ञानादद्वैतप्राप्तिरस्तु । अस्ति च श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः । यथेष्टापूर्तयोः परमपुरुषार्थत्वनिषेधः । अथवादुःशास्त्रपरम्परया प्रवाहतोऽनादिरूपयाऽद्वैतप्राप्तिरस्तु ॥
प्रवाहतोऽनादित्वं चैकप्रवाहमध्यपतितानेकप्रवाहिप्रतियोगिकप्रागभावावच्छिन्नकालावृत्तित्वानधिकरणध्वंसप्रतियोगिप्रवाहित्वमिति मन्दारमञ्जर्यामुक्तम् ॥ तत्र च सादिप्रवाहघटकघटादिक्रियायामतिव्याप्तिवारणाय कालावृत्तित्वानधिकरणेति कालत्वव्यापकार्थकम् । सादिप्रवाहघटकवस्तुध्वंसस्य च न कालत्वव्यापकत्वम् । तस्य तत्प्रवाहोत्तरयावत्कालवृत्तित्वेऽपि तत्प्रवाहघटकानेकवस्तुप्रागभावावच्छिन्नयावत्कालवृत्तित्वाभावादित्येतल्लाभार्थमवच्छिन्नान्तोपादानम् । न त्वस्य लक्षणघटकत्वमनर्थकत्वात् ॥ कालत्वव्यापकप्रवाहित्वमित्येवोक्तौ अनित्यानादिप्रवाहघटकमनोवृत्तीनामसङ्ग्रहात्तादृशध्वंसप्रतियोगित्वपर्यन्तनिवेशः । यद्यप्यनादिप्रवाहघटककामकर्मादिध्वंसानामपि न प्रत्येकं कालत्वव्यापकत्वसम्भवः । तथापि तत्प्रवाहघटकवस्तुध्वंसत्वेन व्यापकत्वं विवक्षणीयमिति ज्ञापनाय प्रवाहिपदम् । यद्यप्येवं न कामकर्मादिध्वंसप्रवाहसङ्ग्रहः । तद्घटकवस्तुध्वंसाप्रसिद्धेः । तथाप्यत्र भावानामेव लक्ष्यत्वान्न दोषः ॥ अभावानामपि लक्ष्यत्वे तत्प्रवाहघटकप्रवाहिप्रागभावावच्छिन्नकालत्वव्यापकप्रवाहित्वं प्रवाहतोऽनादित्वं बोध्यम् । एतेन यथाश्रुतलक्षणस्यानादिप्रवाहघटकचरमव्यक्तावव्याप्तिः । तद्ध्वंसस्य तत्प्रवाहघटकवस्तुप्रागभावावच्छिन्नकालावृत्तित्वात् । एवं तादृशकालावृत्तित्वानधिकरणत्वस्य तादृशकालवृत्तित्वरूपतया तस्य च सादिप्रवाहघटकवस्तुसाधारणत्वादतिव्याप्तिः । तादृशयत्किञ्चित्कालावृत्तित्वानधिकरणत्वस्य तादृशयावत्कालवृत्तित्वपर्यवसितस्य विवक्षायामसम्भवः । कस्यापि ध्वंसस्य तादृशयावत्कालावृत्तित्वात् । अवच्छिन्नान्तवैयर्थ्यं चेत्यादिकमपास्तम् ॥ केचित्तु एकप्रवाहेत्यादिनैकप्रवाहघटकाः यावन्तः प्रवाहिणस्तत्तत्प्रागभावावच्छिन्नकालवृत्तिध्वंसप्रतियोगित्वं विवक्षितम् । तत्र च सादिप्रवाहवारणायावच्छिन्नान्तोपादानम् । तद्घटकवस्तुध्वंसानां च न तद्घटकप्रथमव्यक्तिप्रागभावावच्छिन्नकालवृत्तित्वमित्यदोषः । यद्यपि सामान्यतो यावत्प्रागभावावच्छिन्नकालवृत्तित्वनिवेशेऽपि तद्दोषवारणसम्भवः । तथापि अव्यावर्तकानन्तप्रागभावनिवेशवैयर्थ्यात् तत्प्रवाहघटकप्रवाहिप्रागभावानामेव निवेशः । न चानादिप्रवाहघटकवस्तुध्वंसानामपि प्रत्येकं तादृशयावत्प्रागभावावच्छिन्नकालवृत्तित्वाभावादसम्भव इति वाच्यम् । तत्तत्प्रागभावावच्छिन्नकालवृत्तिवृत्तितत्प्रवाहघटकवस्तुध्वंसत्वाश्रयीभूतध्वंसप्रतियोगित्वस्य विवक्षितत्वात् । न चैवं तत्तत्प्रागभावावच्छिन्नकालवृत्तिवृत्तितत्प्रवाहघटकत्वस्यैव सम्यक्त्वात् ध्वंसप्रतियोगित्वपर्यन्तनिवेशो निष्फल इति वाच्यम् । यथासन्निवेशेन वैयर्थ्यानवकाशादित्याहुः । एवं च दुःशास्त्राणामप्युक्तरूपानादित्वादनादित एवाद्वैतस्य प्राप्तिसम्भवाद्वेदनिषेध्यत्वोपपत्तिरिति भावः ॥

Loading…