अद्वैतस्यागमप्राप्तत्वसमर्थनम्
§78Mūla
यद्वा, तत्त्वमसीति श्रुत्यर्थापरिज्ञानादद्वैतप्राप्तिरस्तु । अस्ति च श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः । यथेष्टापूर्तयोः परमपुरुषार्थत्वनिषेधः । अथवादुःशास्त्रपरम्परया प्रवाहतोऽनादिरूपयाऽद्वैतप्राप्तिरस्तु ॥