Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदाभेदवाक्ययोः प्राबल्यदौर्बल्यविमर्शः

§77Mūla
यद्वा, तत्त्वमसीति श्रुत्यर्थापरिज्ञानादद्वैतप्राप्तिरस्तु । अस्ति च श्रुत्यर्थापरिज्ञानप्राप्तस्य श्रुत्यन्तरेण निषेधः । यथेष्टापूर्तयोः परमपुरुषार्थत्वनिषेधः । अथवादुःशास्त्रपरम्परया प्रवाहतोऽनादिरूपयाऽद्वैतप्राप्तिरस्तु ॥
--- टिप्पण्यः (footnotes): : 'प्रवाहतोऽनादिरूपया दुःशास्त्रपरम्परया' इति पदयोः पूर्वापरीभावः पू.सं.पाठे ।

Loading…