Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदाभेदवाक्ययोः प्राबल्यदौर्बल्यविमर्शः

§77Mūla
न हि प्रत्यक्षेण प्राप्तिरनुवादे प्रयोजिका । तथा सति 'अग्निर्हिमस्य भेषजम्' इति वाक्यमग्नेः शीतनिवृत्तिं प्रत्यन्वयव्यतिरेकरूपानुमानप्राप्तं कारणत्वमर्थं प्रतिपादयदनुवादकत्वेन सर्वसम्मतमनुवादकं न स्यात् ॥
नन्वभेदश्रुतीनां नानुवादकत्वसम्भवः । अभेदस्य प्रत्यक्षेणाप्राप्तत्वात् । न च प्राप्तिमात्रमनुवादप्रयोजकम् । सर्वस्याप्यनुमानतः प्राप्तिसम्भवेन श्रुतिमात्रस्याप्यनुवादकत्वप्रसङ्गादित्यत आह - न हीति ॥ इति वाक्यमनुवादकं न स्यादित्यन्वयः । इष्टापत्तिनिरासार्थमनुवादकत्वेन सर्वसम्मतमिति । प्रत्यक्षप्राप्तप्रतिपादकत्वे दोषाभावादन्वयव्यतिरेकरूपानुमानप्राप्तं कारणत्वमर्थं प्रतिपादयदिति । कारणत्वस्य कालादिघटितत्वेन प्रत्यक्षासम्भवादिति भावः ॥ यत्सत्त्वे यत्सत्त्वमित्यन्वयमात्रस्य प्रमेयत्वाभिधेयत्वयोर्व्यभिचरितत्वात् व्यतिरेकनिवेशः । यदभावे यदभाव इति व्यतिरेकस्य नरशृङ्गशशशृङ्गयोर्व्यभिचारित्वादन्वयनिवेशः । न चैवमप्यन्यथासिद्धान्वयव्यतिरेकवति व्यभिचारः । अनन्यथासिद्धत्वेनापि विशेषणीयत्वात् । वस्तुतस्तु अन्वयव्यतिरेकवत्त्वस्य नियतपूर्ववृत्तित्वव्याप्यतया तेन तस्मिन् साध्यमाने हिमनिवृत्तिं प्रत्यग्नेरन्यथासिद्धनियतपूर्ववृत्तित्वबाधात् अनन्यथासिद्धनियतपूर्ववृत्तित्वरूपकारणत्वसिद्धिरित्यवधेयम् ॥

Loading…