Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदाभेदवाक्ययोः प्राबल्यदौर्बल्यविमर्शः

§77Mūla
एतेन निषेधवाक्यत्वादद्वैतवाक्यं प्रबलमिति प्रत्युक्तम् ।
एवं भेदश्रुतेरभेदनिषेधकत्वसमर्थनेन वाचस्पत्युक्तमपि प्रत्युक्तमित्याह - एतेनेतिप्रबलमिति ॥ तथाच तेन भेदश्रुतेरेव बाधः । अन्यथा नेदं रजतमिति प्रत्यक्षस्यापि प्राबल्यासिद्धेरिदं रजतमिति प्रत्यक्षबाधकत्वानुपपत्तिरिति भावः ॥ प्रत्युक्तमिति ॥ भेदश्रुतेरपि निषेधकत्वसाम्ये दुर्बलत्वायोगादिति भावः । अथ भेदस्याभेदनिषेधरूपत्वेऽप्यभेदनिषेधत्वेन भेदाप्रतिपादकत्वात् द्वा सुपर्णेत्यादेर्दुर्बलत्वमेवेति चेदत्र वक्तव्यम् ॥ किमभेदज्ञानं प्रति अभेदनिषेधत्वेनैव भेदज्ञानं विरोध्युत भेदत्वेनापि । आद्येऽनुभवविरोधः । घटः पटभिन्न इत्यादिज्ञानदशायां जात्वपि तदभेदज्ञानानुदयात् । द्वितीये तु कथं द्वा सुपर्णेत्यादेर्दुर्बलत्वम् ? विरोधित्वाविशेषात् । न चैवमुक्तातिप्रसङ्गः । निश्चितप्रामाण्यकत्वेन प्राबल्यात् । परीक्षया च तन्निश्चयात् । निषेधकत्वमात्रस्याप्रयोजकत्वात् । अन्यथा 'न हिंस्यात्' इत्यादेः 'अग्नीषोमीयम्' इत्यादिश्रुतिबाधकत्वप्रसङ्गात् । न चैवं भेदाभेदवाक्ययोः प्राबल्यदौर्बल्यानिर्णयः । निरवकाशत्वादिना तन्निर्णयात् । निरवकाशत्वं च भेदवाक्यानामेवेत्यन्यत्र प्रपञ्चितम् ॥

Loading…