Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तात्पर्यलिङ्गयुक्तत्वाद्भेदपरत्वं वोताद्वैतपरत्वं वेति विमर्शः

§76Mūla
न चात्र भेदः श्रुतितात्पर्यगोचरः । श्रुतीनां 'नेह नानास्ति' इति निषेधाय प्रत्यक्षप्राप्तभेदानुवादकत्वादिति चेन्न । 'नेह नानाऽस्ति' इत्यादि वाक्यानि, 'विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवत्' इत्यनुमानप्राप्तमभेदं 'द्वा सुपर्णा' इति निषेधायानुवदन्तीति वैपरीत्यप्रसङ्गात् । भेदस्य तादात्म्यनिषेधात्मकतया भेदप्रतिपादकानां तादात्म्यनिषेधरूपत्वात् ।
एवं सत्यद्वैतश्रुतीनां प्रातिभासिकाद्वैतपरत्वेऽपि नाप्रामाण्यप्रसङ्ग इत्याशयेनाह - नेहेति ॥ वाक्यान्यनुवदन्तीत्यन्वयः । भेदवदभेदस्य प्रत्यक्षेण प्राप्यभावादाह - विमता इति ॥ ननु द्वासुपर्णेत्यादीनां कथमभेदनिषेधपरत्वम् ? तदर्थकपदाभावादत आह - भेदस्येति ॥ तादात्म्यनिषेधरूपत्वात् अभेदाभावरूपत्वात् । तथाच भेदार्थस्यैव तदर्थकत्वान्नोक्तदोष इति भावः ॥

Loading…