Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तात्पर्यलिङ्गयुक्तत्वाद्भेदपरत्वं वोताद्वैतपरत्वं वेति विमर्शः

§76Mūla
यदि पुनरबाध्यः स भेदस्तर्ह्यविवादः । कुतश्च व्यावहारिकभेदपरत्वम् । अद्वैतश्रुतिविरोधादिति चेत्तर्ह्यद्वैतश्रुतेः प्रातिभासिकाद्वैतपरत्वमस्तु । विरोधपरिहारसाम्यात् ॥ ननु न श्रुत्युपपादितस्य बाधादप्रामाण्यम् । किन्तु तदभिप्रेतस्य । अन्यथा मीमांसकमतेऽर्थवादभागस्याप्रामाण्यप्रसङ्गः ।
अस्तु तर्ह्यबाध्य एव श्रुत्युक्तो भेद इत्यत आह - यदि पुनरितिअविवाद इति ॥ अबाध्यत्वस्यैव पारमार्थिकत्वरूपतयाऽस्मदभिमतसिद्धेरिति भावः । भेदश्रुतेर्व्यावहारिकभेदपरत्वे बाधकमभिधाय साधकाभावमाह - कुतश्चेति ॥ अद्वैतस्य व्यावहारिकत्वासम्भवात् प्रातिभासिकतेत्युक्तम् । नन्वेवमद्वैतश्रुतीनामप्रामाण्यप्रसङ्ग इति चेत् त्वन्मते द्वैतश्रुतीनामप्रामाण्यप्रसङ्गेन तुल्यत्वादिति भावः ॥ स्यादेवम् । यद्यबाध्यार्थप्रतिपादकत्वं प्रामाण्यं स्यात् । न चैवम् । अपि त्वबाध्यार्थपरत्वम् । द्वा सुपर्णेत्यादीनां च भेदानुवादकानां तन्निषेधपरत्वादेव प्रामाण्योपपत्तिः । अत एव तत्प्रतिपाद्यभेदस्य बाध्यत्वमपीत्याशयेन शङ्कते- नन्वितिअर्थवादभागस्येति ॥ तस्य प्रतिपाद्यार्थाबाधनियमाभावेऽप्यबाध्यविध्यर्थकार्यपरत्वेनैव प्रामाण्याङ्गीकारादिति भावः । मतान्तरे प्रतिपाद्यार्थेऽपि प्रामाण्यात् मीमांसकमत इत्युक्तम् ॥

Loading…