Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

तात्पर्यलिङ्गयुक्तत्वाद्भेदपरत्वं वोताद्वैतपरत्वं वेति विमर्शः

§76Mūla
अथ अद्वैतश्रुतेः षड्विधतात्पर्यलिङ्गयुक्तत्वात्तदर्थः पारमार्थिक इति चेत् । न उपक्रमादीनि हि स्वार्थे तात्पर्यं ज्ञापयन्ति । एवञ्चाद्वैतमात्रपरमस्तु तात्पर्यलिङ्गवशात् । न तत्सत्यत्वपरं तस्यातदर्थत्वात् । भेदे षड्विधतात्पर्यलिङ्गयुक्तत्वमन्यत्रोपपादितमस्माभिः ।
ननु श्रुतेरद्वैतस्वरूपमात्रग्राहकत्वेऽपि तत्सत्यत्वमुपक्रमादितात्पर्यलिङ्गैरवसीयते । न तु भेदसत्यत्वमित्याशङ्कते- अथेति ॥ 'सदेव सोम्येदमग्र आसीत्' एकमेवाद्वितीयम्' इत्युपक्रमः । 'ऐतदात्म्यमिदं सर्व'मित्युपसंहारः । 'तत्त्वमसी'ति नवकृत्वोऽभ्यासः । ऐक्यस्य मानान्तराप्राप्तत्वादपूर्वता । 'अथ सम्पत्स्यत' इति फलम् । 'येनाश्रुतं श्रुतं भवती'त्यर्थवाद इति षड्विधतात्पर्यलिङ्गयुक्तत्वादित्यर्थः ॥ यद्यप्युपपत्त्या सह तात्पर्यलिङ्गानि सप्तविधानि । अस्ति चाद्वैतेऽपि श्रौतोपपत्तिर्यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यादित्यादिः । तथाप्युपक्रमादेः सर्वस्यापि उपपत्तिरूपत्वेनार्थसिद्धत्वात् सा न पृथगुक्ता । स्यादेवम् । यद्युपक्रमादिप्रतिपाद्यमैक्यसत्यत्वं स्यात् । न चैवम् । अपि त्वैक्यमात्रम् । अतो न तत्सत्यत्वसिद्धिरित्याह- उपक्रमादीनीति ॥ ननूपक्रमादीनामैक्यसत्यत्वाप्रतिपादकत्वेऽपि तद्व्याप्यतया तत्साधकत्वमव्याहतमित्यत आह- भेद इति ॥ 'द्वा सुपर्णे'त्युपक्रमः । 'परमं साम्यमुपैति' इत्युपसंहारः । 'तयोरन्यः' 'अनश्नन्नन्यः' 'अन्यमीशम्' इत्यन्यशब्दाभ्यासः । शास्त्रैकसमधिगम्येश्वरभेदपरत्वादपूर्वता । 'पुण्यपापे विधूये'ति फलम् । 'अस्य महिमानम्' इत्यर्थवादः । अनश्नन्नित्युपपत्तिश्चेत्युपपत्तिसहितषड्विधतात्पर्यलिङ्गयुक्तत्वं भेदविषयश्रुतेरपि न्यायामृते उपपादितम् । ततश्च भेदसत्यत्वसिद्धिरित्याशयः ॥ यद्वा, भेदविषय एव श्रुतेः षड्विधतात्पर्यलिङ्गयुक्तत्वमित्यर्थः । तथाहि । एकमेवाद्वितीयमिति सजातीयद्वितीयराहित्येनैवोपक्रमः । कालादेः सत्त्वश्रवणेन द्वितीयमात्रनिषेधायोगात् । ऐतदात्म्यमित्येतत्स्वामिकत्वेनोपसंहारो न त्वेतत्स्वरूपत्वेन । तद्धितवैयर्थ्यात् । तत्त्वमसीत्यनेनापि तत्सदृशत्वादिकमेवाभ्यस्यते । तत्त्वम्पदमुख्यार्थविशिष्टाभेदबाधेन पदद्वयस्य चिन्मात्रलक्षणपेक्षया सामानाधिकरण्यमात्रस्य गौणत्वौचित्यात् । अतत्त्वमसीति च्छेदे तु स्फुटमेव भेदपरत्वम् । मानान्तरागम्येश्वरभेदपरत्वादपूर्वत्वम् । अथ सम्पत्स्यत इति ब्रह्मप्राप्तिः फलमुच्यते । 'येनाश्रुतं श्रुतं भवति' इत्यर्थवादश्च सादृश्यादिनोपपद्यते । तथैव मृत्पिण्डादिदृष्टान्तैरुपपादनात् । सर्वमृण्मयानामेकमृत्पिण्डविकारत्वाभावेन तदभेदे तात्पर्यायोगादित्यादि द्रष्टव्यम् ॥

Loading…