Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवेशभेदे आगमप्रमाणाभिधानम्

§75Mūla
ननु श्रुत्युपस्थापितार्थानङ्गीकारे श्रुतेरप्रामाण्यं स्यात् । न चास्माभिः श्रुतिप्रतिपादितभेदो नाङ्गीक्रियते । नाप्यस्माभिरनङ्गीकृतं तत्सत्यत्वं श्रुतिप्रतिपाद्यम् । श्रुतौ सत्यपदाश्रवणादिति चेत् । नैष दोषः । स्वगोचरार्थबाधो हि प्रामाण्यम् । तद्बाधश्चाप्रामाण्यम् । तत्कथं श्रुतिवेद्यस्य भेदस्य बाधे श्रुतेः प्रामाण्यप्रसङ्गः । सत्यपदाश्रवणात् तदनङ्गीकारे एकमेवाद्वितीयमित्यादौ सत्यपदाभावादद्वैतमपि पारमार्थिकं न स्यात् ।
शुक्तिरूप्याध्यक्षवदित्युक्तदृष्टान्ताभिप्रायमविज्ञाय शङ्कते- नन्विति ॥ सत्यपदाश्रवणात् भेदे सत्यत्वसमर्पकपदाश्रवणात् । अबोधकत्वमेव ह्यप्रामाण्यप्रयोजकम् । श्रुतीनां च भेदस्वरूपबोधकत्वान्न तदंशेऽप्रामाण्यम् । तस्य पारमार्थिकत्वं तु न श्रुतिबोधितम् । अतस्तदंशे तदप्रामाण्यमिष्यत एवेति भावः । स्वगोचरेति ॥ अबाध्यार्थबोधकत्वमित्यर्थः । अयं भावः । अबोधकत्ववद्बाध्यार्थबोधकत्वमप्यप्रामाण्यप्रयोजकम् । अन्यथा शुक्तिरजतग्राहकदुष्टेन्द्रियादेरपि प्रामाण्यप्रसङ्गात् । तच्च श्रुतेरप्यविशिष्टमिति तदप्रामाण्यं दुर्वारमेव । न च ब्रह्मज्ञानेतराबाध्यबोधकत्वमेव प्रामाण्यम् । तच्च श्रुतिसाधारणमिति वाच्यम् । शुक्तिज्ञानेतराबाध्यबोधकत्वमेव प्रामाण्यं, तच्च दुष्टेन्द्रियसाधारणमित्यस्यापि सुवचत्वात् । किञ्च यच्छ्रुतेः प्रामाण्यं तद्बाध्यमेवेति तदभावलक्षणाप्रामाण्यप्रसङ्गस्तदवस्थ एवेति ॥ भेदसत्यत्वं न श्रुत्युक्तमित्येतद्दूषयति- सत्यपदाश्रवणादिति ॥ द्वा सुपर्णेत्यादावित्यादिः । तदनङ्गीकारे भेदसत्यत्वानङ्गीकारे ॥ न स्यादिति ॥ अयमाशयः । सत्त्वासत्त्वोदासीनप्रतीत्यभावादुक्तश्रुत्याऽपि सत्त्वेनैव भेदप्रतीतेः सम्भवति श्रुते- स्तत्सत्यत्वे प्रामाण्यम् । अन्यथा श्रुतेरद्वैतस्वरूपमात्रग्राहकत्वापत्त्या सत्यत्वाग्राहकत्वादद्वैतमपि तव बाध्यं स्यादिति ॥

Loading…