Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवेशभेदे आगमप्रमाणाभिधानम्

§75Mūla
श्रुतयस्तु द्वा सुपर्णेत्याद्याः । व्यावहारिकभेदपरास्ता इति चेत् । स किं बाध्यः ? बाढमिति चेत् न । तर्हि श्रुतेः प्रामाण्यं न स्यात्, बाध्यार्थग्राहित्वात् शुक्तिरूप्याध्यक्षवत् । प्रामाण्यं च व्यावहारिकमिति चेत् । किन्तर्ह्यप्रामाण्यं पारमार्थिकम् ? कः सन्देहः? अस्ति महान्सन्देहस्तथागतचरणशरणत्वमजानतः ॥
एवं जीवेशभेदे प्रत्यक्षानुमाने अभिधायागममप्याह- श्रुतयस्त्विति । न श्रुतयः पारमार्थिकभेदे प्रमाणमित्याशङ्कते - व्यावहारिकेति । श्रुत्युक्तो भेदो बाध्योऽबाध्यो वेति विकल्पेन दूषयितुं पृच्छति- स किमितिप्रामाण्यम् अबाध्यार्थकत्वम् । नन्वारोपितमेव श्रुतेः प्रामाण्यम् । किं त्वब्रह्मज्ञानाबाध्यत्वात् व्यवहारार्हमित्याशङ्कते - प्रामाण्यमितिअप्रामाण्यं प्रामाण्याभावः ॥ पारमार्थिकमिति ॥ भावाभावयोरेकस्य बाधेऽन्यस्याबाध्यत्वनियमादिति भावः । अत्रेष्टापत्तिमाशङ्कते- कः सन्देह इति ॥ तर्हि बौद्धमतप्रवेशप्रसङ्ग इत्याह-अस्तीतितथागतो बौद्धः स्वस्य तदनुयायित्वमनभ्युपगच्छत इत्यर्थः ॥

Loading…