Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदसाधकानुमानानामप्रयोजकतापरिहारः

§74Mūla
न चासिद्धिः । देवदत्तानुभूते यज्ञदत्तस्मरणानुदयात् । आत्मनां स्वाभाविकाभेदे सुखदुःखादिव्यवस्थाऽनुपपत्तिर्बाधिका मन्दारमञ्जर्यामस्माभिरुपपादिता द्रष्टव्या ॥
उक्तानुमानेषु विपक्षे बाधकमाह - आत्मनामितिसुखदुःखव्यवस्थानुपपत्तिः ॥ तत्सुखं तेनैवानुभूयत इत्यादिनियमानुपपत्तिः । चैत्रादेर्मैत्रादिसुखाद्यनुभवस्यापत्तिरिति यावत् । ननु सुखादिव्यवस्थायाः पारमार्थिकत्वे भवेत्स्वाभाविकभेदापेक्षत्वम् । न चैवम् । तस्याः काल्पनिकत्वादित्याशङ्कापनोदाय मन्दारमञ्जर्यामुपपादितेत्युक्तम् । तथाहि- काल्पनिकी व्यवस्था किं व्यवस्थापकमेव नापेक्षते । किं वा पारमार्थिकम् । आद्ये काल्पनिकजीवत्वादिव्यवस्थानिर्वाहायाविद्यादिकल्पनानर्थक्यप्रसङ्गः । द्वितीये काल्पनिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदं विनाऽनुपपत्तेरित्यादिकं तत्र द्रष्टव्यम् ॥

Loading…