Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

मिथो जीवभेदसाधकस्मरणपक्षकानुमानविवरणम्

§73Mūla
न चासिद्धिः । देवदत्तानुभूते यज्ञदत्तस्मरणानुदयात् । आत्मनां स्वाभाविकाभेदे सुखदुःखादिव्यवस्थाऽनुपपत्तिर्बाधिका मन्दारमञ्जर्यामस्माभिरुपपादिता द्रष्टव्या ॥
देवदत्तस्मरणमिति ॥ देवदत्तकर्तृकस्मरणं यज्ञदत्तप्रतियोगिकवास्तवतादात्म्यापन्नकर्तृकस्मरणान्यत् यज्ञदत्तकर्तृकानुभवाजन्यत्वादित्यर्थः । अत्र यद्यपि घटादेरन्वयदृष्टान्तत्वं सम्भवति । तथापि यज्ञदत्तीयस्मृतेस्तदीयानुभवजन्यत्वेन व्यतिरेकव्याप्तेः सुग्रहत्वात्तदनुसरणम् । अत्र च फलतो देवदत्तयज्ञदत्तयोर्भेदसिद्धिः । आदिपदेन देवदत्तानुभवो न वस्तुतो यज्ञदत्तीयो यज्ञदत्तस्मरणाजनकत्वाद् व्यतिरेकेण यज्ञदत्तानुभववदित्यादेः सङ्ग्रहः ॥ देवदत्तस्मरणस्य यज्ञदत्तानुभवजन्यत्वादसिद्धिरित्याशङ्कां वारयति- न चेति ॥ न च मायिमते देवदत्तानुभवस्यैव यज्ञदत्तीयत्वादसिद्धिर्दुर्वारैवेति वाच्यम् । चैतन्यमात्राभेदेऽपि विशिष्टभेदेन तव तदीयत्वासम्भवात् । अन्यथा देवदत्तानुभूते यज्ञदत्तस्मरणप्रसङ्गात् ॥

Loading…