Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

मिथोजीवभेदसाधकान्तःकरणपक्षकानुमानविवरणम्

§72Mūla
न चासिद्धिः । देवदत्तानुभूते यज्ञदत्तस्मरणानुदयात् । आत्मनां स्वाभाविकाभेदे सुखदुःखादिव्यवस्थाऽनुपपत्तिर्बाधिका मन्दारमञ्जर्यामस्माभिरुपपादिता द्रष्टव्या ॥
मिथो जीवभेदकानुमानान्तरमाह- एवमिति ॥ अत्र यज्ञदत्तान्तःकरणावच्छिन्नचैतन्यप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदविशिष्टस्यैव साध्यत्वम् । चैतन्यावच्छेदकपदं तु चैतन्यनिरूपितस्य स्वभोग्यवृत्तिकत्वरूपावच्छेदकत्वस्य सम्बन्धत्वलाभार्थम् । नातः साध्याप्रसिद्धिः । तादृशभेदविशिष्टस्य घटादेः प्रसिद्धत्वात् । तस्य चोक्तसम्बन्धेन वृत्त्यसम्भवाच्चैतन्यावच्छेदकत्वमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । तद्वृत्त्यनिवर्त्यनिवर्तकत्वादिति । यज्ञदत्तान्तःकरणवृत्तिरूपं यज्ज्ञानं तदनिवर्त्यं यदज्ञानादि तन्निवर्तकवृत्त्यारम्भकत्वादित्यर्थः ॥

Loading…