मिथोजीवभेदसाधकान्तःकरणपक्षकानुमानविवरणम्
§72Mūla
एवं देवदत्तान्तःकरणं यज्ञदत्तान्तःकरणावच्छिन्नचैतन्याद्वस्तुतो भिन्नचैतन्यावच्छेदकम् । तद्वृत्त्यनिवर्त्यनिवर्तकत्वात् । व्यतिरेकेण यज्ञदत्तान्तःकरणवत् । एवं देवदत्तस्मरणं न वस्तुतो यज्ञदत्तीयं यज्ञदत्तानुभवाजन्यत्वात् । व्यतिरेकेण यज्ञदत्तस्मरणवत् इत्याद्यूह्यम् ॥