Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

मिथो जीवेशभेदसाधकानुमानससमर्थनम्

§71Mūla
न चोपाधिभेदमात्रेणैव तद्व्यवस्थोपपत्तिर्योगिनि तददर्शनात् ।
नन्वप्रयोजको हेतुः । धर्मिसत्तासमानसत्ताकभेदाभावेऽपि तन्न्यूनसत्ताकभेदेनैव विरुद्धधर्मवत्त्वोपपत्तेरित्याशङ्कां निराचष्टे- न चेति ॥ जीवेशयोरविद्याद्युपाधिकृतभेदेनैवोक्तविरुद्धधर्मवत्त्वोपपत्तिरित्यर्थः ॥ योगिनि योगोपात्तनानादेहवति । तददर्शनात् उक्तविधविरुद्धधर्मवत्त्वादर्शनात् । तथाचौपाधिकभेदस्य विरुद्धधर्मवत्त्वनिर्वाहकत्वे योगिनोऽपि तत्प्रसङ्ग इति भावः । पूर्वमौपाधिकभेदस्य विशिष्य दुःखानुसन्धातृत्वतदभावोभयनिर्वाहकत्वं निराकृतम् । इदानीं तु सामान्यतो विरुद्धधर्मद्वयनिर्वाहकत्वमिति न पुनरुक्तिः ॥

Loading…