Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

मिथो जीवेशभेदसाधकानुमानससमर्थनम्

§71Mūla
जीवेशौ धर्मिसत्तासमानसत्ताकभेदाधिकरणौ विरुद्धधर्माधिकरणत्वात् सम्मतवत् । विरोधश्च न सहानवस्थाननियमलक्षणः । ऐक्यवादिनोऽसिद्धेः । किं तर्हि नित्यत्वानित्यत्वादाविव वध्यघातुकभावलक्षणः । तादृशश्च धर्मः सर्वज्ञत्वासर्वज्ञत्वादिः ।
विमतौ भिन्नौ विरुद्धधर्माधिकरणत्वाद्दहन्तुहिनवदित्यस्योक्तदोषवारणाय विवक्षितार्थमाह- जीवेशाविति । ननु विरुद्धधर्माधिकरणत्वस्य परस्परधर्मवदवृत्तिधर्मवत्त्वरूपस्य हेतोरसिद्धिः । मायिमते जीवेश्वरधर्मयोरेकाधिकरणकत्वादित्याशङ्कावारणाय विरोधं विवृणोति- विरोधश्चेतिसहानवस्थाननियमः परस्पराधिकरणावृत्तित्वम् । सर्वज्ञत्वासर्वज्ञत्वादीनां तदभावात् । वध्यघातुकभावश्च न नाश्यनाशकभावरूपः । किन्तु भावाभावत्वरूप इति ज्ञापनाय नित्यत्वानित्यत्वादाविवेत्युक्तम् ॥ अथ सिद्धान्ते अत्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्वनियमात् कथमीशवृत्तिसर्वज्ञत्वात्यन्ताभावरूपत्वमसर्वज्ञत्वस्य, कथं वा जीवगतासर्वज्ञत्वात्यन्ताभावरूपत्वं सर्वज्ञत्वस्येति चेत् इत्थम् । जीवे आरोपितसर्वज्ञत्वप्रतियोगिकात्यन्ताभाव एवासर्वज्ञत्वम् । स च मतान्तरे प्रतियोगिनैव सिद्धान्ते प्रधानेन विरुद्ध्यते । सर्वज्ञत्ववतीश्वरे सर्वज्ञत्वं नास्तीत्यप्रतीतेः । ईशगतसर्वज्ञत्वस्यासर्वज्ञत्वं प्रति प्रधानत्वादेव प्रतियोगित्वव्यवहारः । एवमसर्वज्ञत्वं सर्वज्ञतादात्म्यनिषेधः । सर्वज्ञतादात्म्यं च सर्वज्ञत्वमेवेति तत्प्रतियोगिकत्वमसर्वज्ञत्वस्य । अन्योन्याभावस्य प्रामाणिकप्रतियोगिकत्वोपपत्तेः । तदभावश्च सर्वज्ञत्वमेव । भावभिन्नात्यन्ताभावस्यैव प्रामाणिकप्रतियोगिकत्वनिषेधात् । 'निषेधस्य निषेधश्च भाव एव बलाद्भवेत्' इति वचनात् । अधिकमन्यत्रानुसन्धेयम् ॥ सर्वज्ञत्वेति ॥ ननु किमिदं सर्वज्ञत्वम् । न तावत् सर्वविषयकज्ञानवत्त्वम् । मेयत्वादिना सामान्यतः सर्वविषयकज्ञानस्य जीवसाधारण्यात् । नापि यावन्तः पदार्थाः तत्तद्व्यक्तित्वेन तावद्विषयकज्ञानवत्त्वम् । असर्वज्ञादीनां विशिष्य तावद्विषयकज्ञानाभावेन दुर्ज्ञेयत्वापत्तेः । उच्यते- विषयितासम्बन्धावच्छिन्नप्रतियोगिताकाभावानधिकरणज्ञानवत्त्वं सर्वज्ञत्वम् । मेयत्वेन सर्वविषयकेऽपि ज्ञाने घटत्वेन घटाभानाद्विषयितासम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकाभावस्यैव सत्त्वान्नातिव्याप्तिः । असर्वज्ञस्याप्येतादृशसर्वज्ञत्वज्ञानसम्भवान्न दुर्ज्ञेयत्वम् । आदिपदेन स्वातन्त्र्यास्वातन्त्र्यादिपरिग्रहः ॥

Loading…