Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

शरीरपक्षकानुमानसमर्थनम्

§70Mūla
चैत्रशरीरं वस्तुतो मैत्रशरीरस्वामिभिन्नस्वामिकं तद्विरुद्धचेष्टाकत्वादित्यत्रापि मैत्रशरीरं व्यतिरेकदृष्टान्तः ॥
ननु चैत्रशरीरमित्याद्यनुमाने प्रागुक्तदोषापरिहारात् कथमस्य सुस्थत्वमत आह - चैत्रशरीरमिति ॥ उक्तरीत्या सिद्धसाधनवारणाय वस्तुत इति भेदविशेषणम् । धर्मिसत्तासमानसत्ताकेत्यर्थः । अयं भावः । तद्विरुद्धचेष्टाकत्वं तत्क्रियाजनकप्रयत्नानुसन्धात्रननुसंहितप्रयत्नजन्यक्रियावत्त्वम् । अतो नोक्तव्यभिचारः । घटादौ प्रयत्नजन्यक्रियाविरहात् । एतदर्थमेव चेष्टापदम् । न चैवं घटादेर्दृष्टान्तत्वासम्भव इति वाच्यम् । व्यतिरेकेण मैत्रशरीरस्यैव दृष्टान्तत्वसम्भवादिति ॥ यत्तु तद्विरुद्धचेष्टावत्त्वं तत्क्रियाकार्यप्रतिबन्धकक्रियावत्त्वम् । शरीरत्वेन हेतुविशेषणान्न घटादौ व्यभिचार इति । तन्न । इन्द्रार्जुनयोः खाण्डवदाहादौ विरुद्धकार्यक्रियावतोर्व्यभिचारात् । न चोभयसम्प्रतिपन्नैकस्वामिकत्वाभावे सतीति विशेषणान्न दोष इति वाच्यम् । विशेषणवैयर्थ्यात् । अप्रयोजकत्वाच्च ॥

Loading…