Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सुखसुखत्वपक्षकानुमानसमर्थनम्

§69Mūla
एवञ्चात्मा धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वाद् घटवदित्यादीन्यपि सुस्थानि ।
नन्वेतावता सुखादिपक्षकानुमाने कथं पूर्वोक्तदोषपरिहार इति चेदित्थम् । सुखादीनामप्ययावद्द्रव्यभावित्वेनात्मन्यङ्गीकारे बाधकाभावात् । तेषां प्रत्यक्षत्वेन तत्प्रयोजकमहत्त्वशून्यमनोगुणत्वासम्भवाच्च । सुखं मनोभिन्ननानाव्यक्तिनिष्ठं गुणत्वाद्रूपवदित्यनुमीयते । तथाच न सिद्धसाधनम् । न चैवमपसिद्धान्तः । तार्किकरीत्यैतत्प्रयोगात् । आश्रयत्वानुसन्धातृत्वान्यतरसम्बन्धस्य साध्यघटकत्वाद्वा दोषाभावात् । मनोवृत्तेर्मनोभिन्नाश्रितत्वानुपपत्त्या मनोभिन्नानुसन्धातृकत्वेनैव साध्यपर्यवसानादुद्देश्यसिद्धेरिति । अस्यार्थस्य द्वित्यादीनामिति ग्रन्थेनैव लाभान्न पृथगुक्तिः ॥

Loading…