Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मभेदसाधकद्वितीयाद्यनुमानानामुक्तदोषपरिहारः

§68Mūla
एवञ्चात्मा धर्मिसत्तासमानसत्ताकात्मप्रतियोगिकभेदाधिकरणं द्रव्यत्वाद् घटवदित्यादीन्यपि सुस्थानि ।
एवं चेति ॥ उक्तरीत्या प्रथमानुमाने व्यवस्थापिते चेत्यर्थः । अपारमार्थिकभेदेन सिद्धसाधनवारणाय धर्मिसत्तासमानसत्ताकेतिइत्यादीत्यादिना सुखं नानाव्यक्तिनिष्ठं गुणत्वादित्यादीनामुपसङ्ग्रहः । आदिपदेनात्मत्वं नानाव्यक्तिनिष्ठं जातित्वादित्यस्य ग्रहणमिति तु मन्दम् । एतावता प्रबन्धेन तस्यैव व्यवस्थापितत्वात् । प्राथमिकत्वेन तस्यैव कण्ठत उपादातुमुचितत्वाच्च ॥ सुस्थानीति ॥ उक्तविधया द्रव्यत्वस्यात्मनि सिद्धत्वेनोक्तासिद्ध्यनवकाशात् । भेदे धर्मिसत्तासमानसत्ताकत्वनिवेशेन सिद्धसाधनस्य चानवकाशादिति भावः ॥

Loading…