आत्मभेदसाधकजातित्वहेतोः अर्थान्तरादिदोषपरिहारः
§67Mūla
न चात्मत्वजातावनुगतव्यवहारः । येन तद्विघटनेन जातिरेव न सिद्ध्येदिति व्यक्त्यभेदो दूषणं स्यात् । किन्तु त्वदुक्तानुमानान्येव । ततः कथं भेदसिद्धिरिति चेत् । सत्यम् । नात्र व्यक्त्यभेदो जातेः प्रमाणविघटनेन दूषणम् । येनैवमुपलभेमहि । किन्तर्हि लक्षणविघटनद्वारा । नित्यमेकमनेकानुगतमिति तल्लक्षणम् ।