Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मभेदसाधकजातित्वहेतोः अर्थान्तरादिदोषपरिहारः

§67Mūla
नन्वेतावताऽऽत्मत्वजातित्वमात्रं सिद्ध्यति नात्मभेदः । न च तथात्वे व्यक्त्यभेदो बाधकः । स ह्यनुगतव्यवहाराभावेनानुगतव्यवहाररूपजातिविषयकप्रमाणविघटनेन दूषणम् ।
ननूक्तानुकूलतर्कसहकृतेनोक्तानुमानजातेनात्मत्वजातिसिद्धावपि नात्मभेदसिद्धिः । न च तत्र तत्र तदनुमानसम्भवः । अप्रयोजकत्वात् । उक्तनियमस्य निर्मूलत्वादित्याशयेन दर्शयति- नन्वितितथात्वे आत्मभेदाभावे ॥ बाधक इति ॥ आत्मत्वजातिसिद्धिविरोधीत्यर्थः । तथा च विपक्षे बाधकतर्कसम्भवान्नाप्रयोजकत्वमित्यभिसन्धिः ॥ व्यक्त्यभेदो हि न साक्षाज्जातिसिद्धिविरोधी । मानाभावात् । अपि तु कारणविघटनद्वारा । कारणं च क्वचिदनुगतव्यवहारः क्वचिदनुमानम् । प्रकृते त्वनुमानमेव । न च तत्र तस्य व्यक्त्यभेदस्य विरोधित्वं मानाभावादित्याह - स हीति ॥ अनुगतव्यवहारो नाम नानेकेष्वेकधर्मज्ञानम् । अनुगतधर्मसिद्धेः पूर्वं तदसिद्धेः । किन्त्वनेकेष्वेकाकारज्ञानम् । व्यक्त्यभेदश्च व्यक्तिभेदघटिततादृशप्रमाणविरहसम्पादकत्वेन जातिसिद्धिविरोधीत्यर्थः ॥

Loading…