Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मभेदसाधकजातित्वहेतोः अर्थान्तरादिदोषपरिहारः

§67Mūla
न चापारमार्थिकभेदेनाप्यात्मत्वजात्युपपत्त्याऽर्थान्तरत्वम् । जातेर्धर्मिसत्तासमानसत्ताकभेदवद्व्यक्त्याश्रितत्वात् । अन्यथा गगनत्वस्यापि जातित्वापत्तेः ॥
आत्मत्वं नानाव्यक्तिनिष्ठं जातित्वादिति फलीभूतानुमाने साध्यशरीरे भेदसामान्यप्रवेशादारोपितभेदसिद्ध्याऽप्यनुमानपर्यवसानादर्थान्तरमित्याशङ्क्य निराचष्टे- न चेतिआत्मत्वजात्युपपत्त्या आत्मत्वस्य जातित्वोपपत्त्या ॥ जातेरिति ॥ तथाच धर्मिसत्तासमानसत्ताकभेदस्यैव साध्यघटकत्वादात्मनि पारमार्थिकभेदं विना साध्यापर्यवसानान्नार्थान्तरत्वमिति भावः । ननु जातेर्भेदवद्व्यक्त्याश्रितत्वमित्येव नियमो न तु धर्मिसत्तासमानसत्ताकत्वमपि तत्र निवेश्यत इत्यत आह- अन्यथेतिजातित्वापत्तेरिति ॥ गगनेऽप्यौपाधिकभेदसत्त्वादिति भावः । एतच्च मायिमतेनोक्तम् । सिद्धान्तिभिरौपाधिकभेदानङ्गीकारात् ॥

Loading…