Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

व्यक्त्यभेदस्य आत्मत्वजातिबाधकत्वाभावसमर्थनम्

§66Mūla
एवं तर्हि गगनत्वादिकमपि जातिः स्यादिति चेन्न । तेषां धर्मिग्राहकमानेन लाघवानुगृहीतेनैकत्वसिद्धौ बाधात् । न चैवं प्रकृते । धर्मिग्राहकप्रत्यक्षस्य भेदग्राहकत्वेनोपपादनात् ।
ननु संशयसाधारणव्यक्त्यभेदज्ञानमात्रस्य जातित्वानुमितौ मणिमन्त्रादिवत् स्वातन्त्र्येणैव विरोधित्वम् । अन्यथोक्तक्रमेण गगनत्वादिजातिसिद्धिप्रसङ्गात् । तथाच नात्मत्वजातिसिद्धिरित्याशङ्कते- एवमिति ॥ व्यक्त्यभेदसन्देहस्य जातित्वानुमित्यविरोधित्व इत्यर्थः । स्यादेवं यदि प्रकृत इव गगनव्यक्त्यभेदः सन्दिग्धः स्यात् । न चैवम् । अपि तु प्रमित एव । तथाच तत एवातिप्रसङ्गवारणादुक्तविरोधित्वे मानाभाव इति भावेन समाधत्ते ॥ धर्मिग्राहकेति ॥ शब्दो द्रव्याश्रितो गुणत्वाद्रूपवदित्यनुमानेन शब्दस्यैकद्रव्याश्रितत्वे लाघवमिति लाघवग्रहसहकृतेन पृथिव्याद्यष्टद्रव्याश्रितत्वबाधे सत्यष्टद्रव्यातिरिक्तैकद्रव्याश्रितत्वस्यैव सिद्ध्या गगनत्वादेर्जातित्वाभावनिश्चयादित्यर्थः । धर्मिग्राहकेत्यनेनोपजीव्यतया प्राबल्यं सूचितम् । तेन वैपरीत्यशङ्कानवकाशः ॥ प्रत्यक्षस्येति ॥ साक्षिणो 'नाहं निर्दुःखः' इत्यादिरूपस्य भेदग्राहकत्वेनैव पूर्वमुक्तत्वादित्यर्थः । एवं च नोक्ताभाससाम्यमित्याशयः ॥

Loading…