Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

व्यक्त्यभेदस्य आत्मत्वजातिबाधकत्वाभावसमर्थनम्

§66Mūla
तुल्यव्यक्तिकत्वादीनां च बाधकानामभावात् । व्यक्त्यभेदोऽपि न बाधकः । तथा हि । आत्मत्वजातिसाधनद्वाराऽऽत्मभेदः साध्यः । स च सन्दिग्धः । न च साध्याभावसन्देहोऽनुमानविरुद्धः । अन्यथा अनुमानमात्रोच्छेदप्रसङ्गः ॥
ननु तथापि व्यक्त्यभेदो बाधकः । यथोक्तम्- 'व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह' इत्यत आह- व्यक्त्यभेद इति ॥ आत्मत्वस्य जातित्वे व्यक्त्यभेदः स्वाश्रयप्रतियोगिकभेदवदवृत्तित्वं विरोधीति न वाच्यम् । तस्य साक्षाज्जातित्वानुमितिविरोधित्वे मानाभावात् । फलीभूतात्मभेदानुमितौ च तन्निश्चयस्यैव बाधविधया विरोधित्वात्, तस्य च प्रकृतेऽभावादित्याह- आत्मत्वेतिआत्मभेदः आत्मत्वस्य स्वाश्रयप्रतियोगिकभेदवद्वृत्तित्वम् । स च सन्दिग्ध इति ॥ तत्सन्देहस्य च व्यक्त्यभेदसन्देहतया न विरोधित्वमिति भावः । ननु तत्सन्देह एवानुमितिप्रतिबन्धको भविष्यतीत्यत आह- न चेतिअनुमानमात्रोच्छेदप्रसङ्ग इति ॥ सर्वत्र साध्यसन्देहसत्त्वादिति भावः । एतच्च साध्यसन्देहः पक्षतेति मतेनोक्तम् । सिद्ध्यभावपक्षतापक्षे तु साध्यसन्देहस्यानुमित्यव्यवहितपूर्वमनावश्यकत्वात् सन्दिग्धसाध्यकानुमानोच्छेदप्रसङ्गो द्रष्टव्यः ।

Loading…