Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजात्यङ्गीकारे बाधकाभावसमर्थनम्

§65Mūla
तुल्यव्यक्तिकत्वादीनां च बाधकानामभावात् । व्यक्त्यभेदोऽपि न बाधकः । तथा हि । आत्मत्वजातिसाधनद्वाराऽऽत्मभेदः साध्यः । स च सन्दिग्धः । न च साध्याभावसन्देहोऽनुमानविरुद्धः । अन्यथा अनुमानमात्रोच्छेदप्रसङ्गः ॥
एवमात्मत्वजातौ साधकसत्त्वमुपपाद्य बाधकासत्त्वमप्युपपादयति- तुल्यव्यक्तिकत्वादीनामिति ॥ घटत्वकलशत्वयोर्भिन्नजातित्वे जातिसमनैयत्यरूपतुल्यव्यक्तिकत्वं बाधकम् । भूतत्वमूर्तत्वयोर्जातित्वे परस्पराभावसमानाधिकरणत्वे सति परस्परसमानाधिकरणत्वरूपसाङ्कर्यम् । जातेर्जातिमत्त्वे जातिपरम्परया अनवस्था । विशेषस्य जातिमत्त्वे जातेरेव व्यावर्तकतया स्वतोव्यावृत्तत्वरूपतत्स्वरूपस्य, जात्यन्यत्वे जातिशून्यत्वे च सति समवेतत्वरूपतल्लक्षणस्य वा हानिः । अभावस्य जातिमत्त्वे समवायवैधुर्यं बाधकम् । आत्मत्वजात्यङ्गीकारे चैतेषामभावादित्यर्थः ॥

Loading…