Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकानुमानेष्वप्रयोजकतादिदोषपरिहारः

§64Mūla
औपाधिकत्वाङ्गीकारे तु तस्योपाधिज्ञानसापेक्षत्वेन गौरवमित्यनुकूलतर्कसनाथत्वात् ।
जातेरखण्डत्वेन विशेषणज्ञानाद्यनपेक्षत्वादिति भावः । औपाधिकत्वेति ॥ विशिष्टधर्मस्वरूपत्वेत्यर्थः । अनेकवस्तुघटितस्वप्रकाशत्वादेरात्मपदप्रवृत्तिनिमित्तत्व इति यावत् ॥ गौरवमिति ॥ यद्यपि स्वप्रकाशत्वादेरात्मपदप्रवृत्तिनिमित्तत्वाभावेऽपि स्वघटकोपाधिज्ञानसापेक्षज्ञानकत्वमस्त्येवेति न लाघवावकाशः । प्रत्युत जात्यन्तरकल्पनादेव गौरवम् । तथाप्यात्मपदशक्तिज्ञानादेरनेकोपाधिज्ञानाधीनत्वकल्पनादनेकोपाध्यन्तर्भावेन शक्यतावच्छेदकत्वकल्पनाच्च गौरवं बोध्यम् ॥

Loading…