Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकानुमानेष्वप्रयोजकतादिदोषपरिहारः

§64Mūla
न चानुकूलतर्काभावादप्रयोजकत्वाभाससमानयोगक्षेमत्वे । आत्मपदप्रवृत्तिनिमित्तस्य आत्मत्वस्य जातित्वाङ्गीकारे लाघवम् ।
ननूक्तानुमानेषु हेतुरस्तु साध्यं माऽस्त्वित्यप्रयोजकशङ्कावारकतर्काभावादसाधकत्वम् । एवं पृथिवीत्वं जलत्वादिक्लृप्तजातिव्यतिरिक्तद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नं जातित्वात्, सत्ता द्रव्यत्वान्याकाशनिष्ठजात्यन्या जातित्वाद्घटत्ववदित्याद्याभाससाम्यं चेत्याशङ्कां निराह- न चेतिआभाससमानेति ॥ योगक्षेमयोः साधकबाधकभावाभावयोराभाससमानत्वमित्यर्थः । तथाचोक्तानुमानस्याभासत्वादस्याप्याभासत्वमविशेषादिति भावः । आभाससाम्यं विघटयिष्यन्ननुकूलतर्कमुपपादयति-आत्मपदेति ॥ आत्मपदशक्यतावच्छेदकस्येत्यर्थः । लाघवमिति

Loading…