Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकानुमानेषु असिद्ध्यादिपरिहारः

§63Mūla
न चात्मनो द्रव्यत्वासिद्ध्याऽसिद्ध्यादिः । आत्मनि निर्गुणे रूपादिगुणाभावेऽप्ययावद्द्रव्यभाविद्वित्वादिगुणानां व्यावहारिकाणामङ्गीकारे बाधकाभावात् । गुणाद्यन्तर्भावप्रसङ्गाच्च द्रव्यत्वसिद्धेः ।
मायिनामाशङ्कां मायिरीत्यैव निरस्यति - न चेति ॥ निर्गुणश्रुतिविरोधेनात्मनि 'गुणवत्त्वासिद्ध्या तद्व्याप्यद्रव्यत्वजातिरप्यसिद्धेत्यर्थः ॥ असिद्ध्यादिरिति ॥ अव्यवहितपूर्वानुमाने स्वरूपासिद्धिर्बाधश्च । तत्पूर्वानुमाने साध्याप्रसिद्धिः । तत्पूर्वानुमाने द्रव्यत्वान्येति विशेषणवैयर्थ्यम् । तत्पूर्वानुमानेष्वात्मनि द्रव्यत्वव्याप्यजातिसिद्धिमादाय साध्यपर्यवसानायोगादुद्देश्यासिद्धिरित्यर्थः ॥ आत्मनीति ॥ अयं भावः । निर्गुणश्रुत्या पारमार्थिकगुणनिषेधेऽपि व्यावहारिकगुणाङ्गीकारे बाधकाभावः । न च गुणानां यावद्द्रव्यभावित्वेन पारमार्थिकत्वापत्तिः। यावद्द्रव्यभाविरूपादिगुणाङ्गीकारायोगेऽप्यपेक्षाबुद्धिजन्यद्वित्वाद्यङ्गीकारे बाधकविरहादिति । नन्वत्र साधकाभाव एव बाधक इत्यत आह- गुणाद्यन्तर्भावेति ॥ अवृत्तित्वेन गुणाद्यनन्तर्भूतस्य परिशेषाद्द्रव्यत्वसिद्धेरित्यर्थः ॥

Loading…