Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकानुमानानामप्रयोजकताशङ्कापरिहारौ

§62Mūla
न चात्र द्रव्यत्वव्याप्यजातिमत्पदार्थान्तरसिद्ध्याऽर्थान्तरत्वम् । क्लृप्ते धर्मिणि धर्मविशेषसाधनमात्रेणानुमानपर्यवसानसम्भवे तद्विशिष्ट धर्मिण्यनुमानपर्यवसाने गौरवात् ।
द्रव्यत्वव्याप्यजातीति ॥ तादृशजात्यन्तरविशिष्टदशमद्रव्यसिद्ध्या पृथिवीत्वादिपक्षकानुमानेष्वर्थान्तरमित्यर्थः । गौरवादिति ॥ धर्मधर्म्युभयकल्पनातो धर्ममात्रकल्पनाया लघुत्वादिति भावः । न चैकव्यक्तौ जातिकल्पनायोगाद्व्यक्त्यन्तरकल्पनमावश्यकमेवेति वाच्यम् । अक्लृप्तानेकव्यक्तिकल्पनापेक्षया क्लृप्तव्यक्त्यन्तर्भावेन जातिकल्पने लाघवानपायात् ॥

Loading…