Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकानुमानान्तराणि

§61Mūla
द्रव्यत्वं वा सत्तान्यात्मनिष्ठजात्यन्यत् जातित्वात् प्रमेयत्वात् घटत्ववत् । आत्माणुत्ववादिनां तु आत्मा द्रव्यत्वव्याप्यजात्यधिकरणम् । अविभुद्रव्यत्वात् पृथिवीवदित्याद्यनुमानान्यात्मभेदं साधयन्ति ।
एतेन द्रव्यत्वं वेत्यादिकं व्याख्यातप्रायम् ॥ आत्मेति ॥ जीवात्मेत्यर्थः । तेन नेश्वरे भागासिद्धिः । अत्र द्रव्यत्वादिजात्या सिद्धार्थतावारणाय द्रव्यत्वव्याप्येत्युक्तार्थकम् । एकत्वादिना तद्दोषवारणाय जातीति । गगनादौ व्यभिचारवारणायाविभ्विति । विभुत्वं च सर्वमूर्तसंयोगित्वं परममहत्त्ववत्त्वं वा । तच्छून्यत्वरूपाविभुत्वस्य गुणादावनैकान्त्यात् द्रव्येति । एतादृशहेतोरसिद्धिपरिहारायैवात्माणुत्ववादिनामित्युक्तम् । न त्वात्मविभुत्वपक्षे हेत्वन्तरासम्भवात् । प्रत्यक्षद्रव्यत्वादेर्हेतुत्वसम्भवात् । एवं 'घटो घटात्मान्यतरवृत्तिजातिशून्यो मेयत्वात् पटवत् । सत्ताद्रव्यत्वाभ्यामनेन ज्ञायमानमिदमिदानीमात्मवृत्तिजात्या न ज्ञायते, वस्तुत्वाद्वस्त्वन्तरवदित्यादिकमात्मत्वजातिसाधकमनुमानं द्रष्टव्यम् ॥

Loading…